हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Krishna Stotram (Danava Krutam) – श्री कृष्ण स्तोत्रम् (दानव कृतम्)
वामनोऽसि त्वमंशेन मत्पितुर्यज्ञभिक्षुकः ।
राज्यहर्ता च श्रीहर्ता सुतलस्थलदायकः ॥ १ ॥
बलिभक्तिवशो वीरः सर्वेशो भक्तवत्सलः ।
शीघ्रं त्वं हिन्धि मां पापं शापाद्गर्दभरूपिणम् ॥ २ ॥
मुनेर्दुर्वाससः शापादीदृशं जन्म कुत्सितम् ।
मृत्युरुक्तश्च मुनिना त्वत्तो मम जगत्पते ॥ ३ ॥
षोडशारेण चक्रेण सुतीक्ष्णेनातितेजसा ।
जहि मां जगतां नाथ सद्भक्तिं कुरु मोक्षद ॥ ४ ॥
त्वमंशेन वराहश्च समुद्धर्तुं वसुन्धराम् ।
वेदानां रक्षिता नाथ हिरण्याक्षनिषूदनः ॥ ५ ॥
त्वं नृसिंहः स्वयं पूर्णो हिरण्यकशिपोर्वधे ।
प्रह्लादानुग्रहार्थाय देवानां रक्षणाय च ॥ ६ ॥
त्वं च वेदोद्धारकर्ता मीनांशेन दयानिधे ।
नृपस्य ज्ञानदानाय रक्षायै सुरविप्रयोः ॥ ७ ॥
शेषाधारश्च कूर्मस्त्वमंशेन सृष्टिहेतवे ।
विश्वाधारश्च विश्वस्त्वमंशेनापि सहस्रधृत् ॥ ८ ॥
रामो दाशरथिस्त्वं च जानक्युद्धारहेतवे ।
दशकन्धरहन्ता च सिन्धौ सेतुविधायकः ॥ ९ ॥
कलया परशुरामश्च जमदग्निसुतो महान् ।
त्रिःसप्तकृत्वो भूपानां निहन्ता जगतीपते ॥ १० ॥
अंशेन कपिलस्त्वं च सिद्धानां च गुरोर्गुरुः ।
मातृज्ञानप्रदाता च योगशास्त्रविधायकः ॥ ११ ॥
अंशेन ज्ञानिनां श्रेष्ठौ नरनारायणावृषी ।
त्वं च धर्मसुतो भूत्वा लोकविस्तारकारकः ॥ १२ ॥
अधुना कृष्णरूपस्त्वं परिपूर्णतमः स्वयम् ।
सर्वेषामवताराणां बीजरूपः सनातनः ॥ १३ ॥
यशोदाजीवनो नित्यो नन्दैकानन्दवर्धनः ।
प्राणाधिदेवो गोपीनां राधाप्राणाधिकप्रियः ॥ १४ ॥
वसुदेवसुतः शान्तो देवकीदुःखभञ्जनः ।
अयोनिसम्भवः श्रीमान् पृथिवीभारहारकः ॥ १५ ॥
पूतनायै मातृगतिं प्रदाता च कृपानिधिः ।
बककेशिप्रलम्बानां ममापि मोक्षकारकः ॥ १६ ॥
स्वेच्छामय गुणातीत भक्तानां भयभञ्जन ।
प्रसीद राधिकानाथ प्रसीद कुरु मोक्षणम् ॥ १७ ॥
हे नाथ गार्दभीयोनेः समुद्धर भवार्णवात् ।
मूर्खस्त्वद्भक्तपुत्रोऽहं मामुद्धर्तुं त्वमर्हसि ॥ १८ ॥
वेदा ब्रह्मादयो यं च मुनीन्द्राः स्तोतुमक्षमाः ।
किं स्तौमि तं गुणातीतं पुरा दैत्योऽधुना खरः ॥ १९ ॥
एवं कुरु कृपासिन्धो येन मे न भवेज्जनुः ।
दृष्ट्वा पादारविन्दं ते कः पुनर्भवनं व्रजेत् ॥ २० ॥
ब्रह्मा स्तोता खरः स्तोता नोपहासितुमर्हसि ।
सदीश्वरस्य विज्ञस्य योग्यायोग्ये समा कृपा ॥ २१ ॥
इत्येवमुक्त्वा दैत्येन्द्रस्तस्थौ च पुरतो हरेः ।
प्रसन्नवदनः श्रीमानतितुष्टो बभूव ह ॥ २२ ॥
इदं दैत्यकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ।
सालोक्यसार्ष्टिसामीप्यं लीलया लभते हरेः ॥ २३ ॥
इह लोके हरेर्भक्तिमन्ते दास्यं सुदुर्लभम् ।
विद्यां श्रियं सुकवितां पुत्रपौत्रान् यशो लभेत् ॥ २४ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे द्वाविंशोऽध्याये दानवकृत श्री कृष्ण स्तोत्रम् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.